|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.90. अध्यायः 090
Mahabharata - Adi Parva - Chapter Topics
मृगयार्थं दुष्यन्तस्यारण्यगमनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-90-0x(569)(3879)
संभवं भरतस्याहं चरितं च महामतेः।
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः॥ 1-90-1(3880)
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला।
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्॥ 1-90-2(3881)
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर। 1-90-3(3882)
वैशम्पायन उवाच।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥ 1-90-3x(570)
वनं जगाम गहनं हयनागशतैर्वृतः।
बलेन चतुरङ्गेण वृतः परमवल्गुना॥ 1-90-4(3883)
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः॥ 1-90-5(3884)
सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः॥ 1-90-6(3885)
नानायुधधरैश्चापि नानावेषधरैस्तथा।
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः॥ 1-90-7(3886)
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे।
प्रासादवरशृङ्गस्थाः परया नृपशोभया॥ 1-90-8(3887)
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्।
शक्रोपमममित्रघ्नं परवारणवारणम्॥ 1-90-9(3888)
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे।
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः॥ 1-90-10(3889)
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं॥ 1-90-11(3890)
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि।
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः॥ 1-90-12(3891)
निर्ययौ परमप्रीत्या वनं मृगजिघांसया।
तं देवराजप्रतिमं मत्तवारणधूर्गतम्॥ 1-90-13(3892)
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे।
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च॥ 1-90-14(3893)
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा।
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह॥ 1-90-15(3894)
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः।
महीमापूरयामास घोषेण त्रिदिवं तथा॥ 1-90-16(3895)
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्॥ 1-90-17(3896)
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम्॥ 1-90-18(3897)
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः।
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः॥ 1-90-19(3898)
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्।
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्॥ 1-90-20(3899)
पातयामास दुष्यन्तो निर्बिभेद च सायकैः।
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः॥ 1-90-21(3900)
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत।
कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः॥ 1-90-22(3901)
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः।
तोमरैरसिभिश्चापि गदामुसलकम्पनैः॥ 1-90-23(3902)
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्।
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः॥ 1-90-24(3903)
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः।
तत्र विद्रुतयूथानि हतयूथपतीनि च॥ 1-90-25(3904)
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः।
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः॥ 1-90-26(3905)
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः।
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि॥ 1-90-27(3906)
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः।
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः॥ 1-90-28(3907)
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा।
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः॥ 1-90-29(3908)
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः।
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु॥ 1-90-30(3909)
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्।
तद्वनं बलमेघेन शरधारेण संवृतम्।
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्॥ ॥ 1-90-31(3910)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवतितमोऽध्यायः॥ 90 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-90-9 परवारणवारणं शत्रगजानां निवारकम्॥ 1-90-13 धर्गतं स्कन्धारूढम्॥ 1-90-28 संसाध्य पाकादिना संस्कृत्य॥ 1-90-29 प्रकुट्य चूर्णीकृत्य। गजा वनगजाः॥ नवतितमोऽध्यायः॥ 90 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|